|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.162. अध्यायः 162
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति नृशंसलक्षणादिकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-162-0x(5840)(71439)
आनृशंस्यं विजानामि दर्शनेन सतां सदा।
नृशंसान्न विजानामि तेषां कर्म च भारत॥ 12-162-1(71440)
कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम्॥ 12-162-2(71441)
नृशंसो दह्यते व्यक्तं प्रेत्य चेह च भारत।
तस्मात्त्वं ब्रूहि कौरव्य तस्य धर्मविनिश्चयम्॥ 12-162-3(71442)
भीष्म उवाच। 12-162-4x(5841)
स्पृहाऽस्यान्तर्गता चैव विदितार्था च कर्मणाम्
आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते स च॥ 12-162-4(71443)
दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः।
असंभोगी च मानी च तथा सङ्गी विकत्थनः॥ 12-162-5(71444)
सर्वातिशङ्की पुरुषो बलीशः कृपणोऽथवा।
वर्गप्रशंसीं सततमाश्रमद्वेपसंकरी॥ 12-162-6(71445)
हिंसाविकारी सततमविशेषगुणागुणः।
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत्॥ 12-162-7(71446)
धर्मशीलं गुणोपेतं पाप इत्यवगच्छति।
आत्मशीलोपमानेन न विश्वसिति कस्यचित्॥ 12-162-8(71447)
परेषां यत्र दोपः स्यात्तद्गुह्यं संप्रकाशयेत्।
समानेष्वेव दोपेषु वृत्त्यर्थमुपघातयेत्॥ 12-162-9(71448)
तथोपकारिणं चैव मन्यते वञ्चितं परम्।
दत्त्वाऽपि च धनं काले संतपत्युपकारिणे॥ 12-162-10(71449)
भक्ष्यं पेयमथालेह्यं यच्चान्यत्साधु भोजनम्।
प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत्॥ 12-162-11(71450)
ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते।
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते॥ 12-162-12(71451)
एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः।
सदा विवर्जनीयो हि पुरुषेण बुभूषता॥ ॥ 12-162-13(71452)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः॥ 162॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-162-5 दत्तमनुकीर्तयतीति दत्तानुकीर्तिः स्वस्य वदान्यत्वप्रकाशकः। विषमः विद्वेषकर्ता। क्षुद्रो नीचकर्मकारी। नैकृतिकः स्नेहं प्रदर्श्य वञ्चकः। शठः सत्यपि सामर्थ्ये दारिद्र्यव्यञ्जकः॥ 12-162-6 बलीशः काकइव वञ्चकदृष्टिः। आश्रमद्वेषः संकरश्चास्यास्तीति आश्रमद्वेषसंकरी॥ 12-162-8 आत्मशीलानुमानेनेति थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|